संस्कृत-शब्दकोशः

महायज्ञ महायशस्क

महायशस्

शब्दकल्पद्रुमः

महायशाः || [स्] पुं, (महत् यशो यस्य विभाषा ग्रहणात् न कप् ।)
भूतार्हद्बिशेषः । इति हेमचन्द्रः । १ । ५० ॥ (शिवः । यथा, महा- भारते । १३ । १७ । ३४ । “महारूपो महाकायो वृषरूपो महायशाः ॥” स्त्री, स्कन्दमातृगणविशेषः । यथा, महा- भारते । ९ । ४६ । २८ । “पशुदा वित्तदा चैव सुस्वदा च महायशाः ॥”)
अतिशययशोयुक्ते, त्रि ॥ (यथा, महाभारते । ३ । ४२ । ४१ । “एवं स संक्रमंस्तत्र स्वर्गलोके महायशाः । ततो ददर्श शक्रस्य पुरीन्ताममरावतीम् ॥”)



Correction: