शब्दकल्पद्रुमः
महाराजः || पुं, (महांश्चासौ राजा प्रभाव- विशेषवानिति ।)
पूर्ब्बजिनविशेषः । (महत्या दीप्त्या राजतेऽङ्गुलिषु शोभत इति । राज् + अच् ।)
नखः । इति हेमचन्द्रः । ३ । २५८ । (महान् राजा । सर्व्वत्र “राजाहःसखिभ्यष्टच् । ५ । ४ । ९१ । इति समासान्तष्टच् ।)
श्रेष्ठराजः । यथा, —
“अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज ! बद्धोऽस्म्यर्थेन कौरवैः ॥” इति महाभारते उद्योगपर्व्व ॥