संस्कृत-शब्दकोशः

महाराजक महाराजद्रुम

महाराजचूत

शब्दकल्पद्रुमः

महाराजचूतः || पुं, (महता मिष्टादिगुणेन राजते आद्रियते । इत्यच् ततः कर्म्मधारयः ।)
उत्त- माम्रः । तत्पर्य्यायः । महाराजाम्रकः २ स्थूलाम्रः ३ मन्मथानन्दः ४ कङ्कः ५ नीलकपित्थकः ६ कामायुधः ७ कामफलः ८ राजपुत्त्रः ९ नृपा- त्मजः १० महाराजफलः ११ कामः १२ महा- चूतः १३ । कोमलस्य तस्य गुणाः । कटुत्वम् । अम्लत्वम् । पित्तदाहदातृत्वञ्च । सुपक्वस्य तस्य गुणाः । स्वादुत्वम् । मधुरत्वम् । पुष्टिवीर्य्यबल- प्रदत्वञ्च । इति राजनिर्घण्टः ॥



Correction: