संस्कृत-शब्दकोशः

महारात्रि महाराष्ट्री

महाराष्ट्र

वाचस्पत्यम्

महाराष्ट्र ||‍ पु० कर्म० । (महाराट्ठा) १ देशभेदे । तद्देशः का- रणत्वेन अस्त्यस्या अच् गौरा० ङीष् । २ जलपिप्पल्याम् ३ शाकभेदे च स्त्री राजनि० ।


शब्दकल्पद्रुमः

महाराष्ट्रः || पुं, (महान् भूयान् प्रशस्तो वा राष्ट्रः । महत् राष्ट्रं यत्रेति वा ।)
देशविशेषः । मारहाट्टा इति भाषा ॥ यथा, —
“नैरृते द्रविडानर्त्तमहाराष्ट्राश्च रैवतः । जवनः पह्लवः सिन्धुः पारसीकादयो मताः ॥” इति ज्योतिषतत्त्वे कूर्म्मचक्रम् ॥



Correction: