संस्कृत-शब्दकोशः

महाराष्ट्र महारिष्ट

महाराष्ट्री

शब्दकल्पद्रुमः

महाराष्ट्री || स्त्री (महाराष्ट्रस्तद्देश उत्पत्तिस्थान- त्वेनास्त्यस्या इत्यच् । गौरादित्वात् ङीष् ।)
जलपिप्पली । इति राजनिर्घण्टः ॥ शाकभेदः । माराटी इति भाषा । अस्या गुणः । कफवायु- नाशित्वम् । इति राजवल्लभः ॥ (विषयोऽस्या यथा, —
“जयन्ती मुण्डिरी वासा बृहती च गुडूचिका । महाराष्ट्री जम्बुरसैस्तथा नीलोत्पलद्रवैः ॥” इति वैद्यकरसेन्द्रसारसग्रहे शूलाधिकारे पञ्चा- त्मकरसे ॥ महाराष्ट्राणामियमिति । महाराष्ट्र । अण् ङीप् ।)
अष्टादशभाषान्तर्गतभाषा- विशेषः । यथा, साहित्यदर्पणे ६ परिच्छेदे । “आसामेव तु गाथान्तु महाराष्ट्रीं प्रयोजयेत् । अत्रोक्ता मागधी भाषा राजान्तःपुरचारि- णाम् ॥”



Correction: