संस्कृत-शब्दकोशः

महारूपक महारोगिन्

महारोग

वाचस्पत्यम्

महारोग ||‍ पु० कर्म० । “उन्मादो राजक्ष्मा च श्यावस्त्वग्- दोष एव च । मधुमेहश्चाश्मरी च तथोदरभगन्दरौ । इत्येतेऽष्टौ महारोगा महापातकसम्भवाः” इत्युक्तेषु महापतकजन्येषु उन्मदादिषु रोगेषु । (श्यावः श्यावदन्त


शब्दकल्पद्रुमः

महारोगः || पुं, (महान् घोरानिष्टकारकः रोगः । यद्वा, महा जन्मान्तरीणभुक्तावशिष्टातिशय- पातकेन जनितः रोगः ।)
पापरोगः । स चाष्ट- विधो यथा । उन्मादः १ त्वग्दोषः २ राज- यक्ष्मा ३ श्वासः ४ मधुमेहः ५ भगन्दरः ६ उदरः ७ अश्मरी ८ । इति शुद्धितत्त्वे नारदः ॥ (यथा च आश्वलायने । २ । ७ । १७ । “महारोगेण वाभितप्तः प्राश्नीयादन्यतरां गतिं गच्छति ॥” “महारोगेण क्षयकुष्ठादिनेति” तद्वृत्तौ गार्ग्य- नारायणः ॥ विषयोऽस्य यथा, —
“महारोगाष्टके कासे ज्वरे श्वासातिसारके ॥” अस्य व्याख्यायां यथा, —
“वातव्याध्यश्मरीकुष्ठमेदोदरभगन्दराः । अर्शांसि ग्रहणीत्यष्टौ महारोगाः प्रकीर्त्तिताः ॥” इति वैद्यकरसेन्द्रसारसंग्रहे यक्ष्मणि रत्नगर्भ- पोट्टलीटीका ॥)



Correction: