शब्दकल्पद्रुमः
महारोमा || [न्] पुं, (महान्ति रोमाणि वृक्षादि- रूपाणि विराटरूपे यस्य ।)
शिवः । इति महाभारते तस्य सहस्रनामस्तोत्रम् । १३ । १७ । ८८ ॥ (महान्ति रोमाण्यस्य ।)
बृहद्रोम- युक्ते, त्रि ॥ (कृतिरातस्य पुत्रविशेषः । यथा, भागवते । ९ । १३ । १७ । “मरोः प्रतीपकस्तस्माज्जातः कृतरथो यतः । देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृतिः ॥ कृतिरातस्ततस्तस्माम्महारोमा च तत्सुतः ॥”)