शब्दकल्पद्रुमः
महार्हं || क्ली (महान् अर्हः मूल्यं मर्य्यादा वास्य ।)
श्वेतचन्दनम् । इति राजनिर्घण्टः ॥ (महा- मूल्यवति, त्रि । यथा, महाभारते । १ । २१० । २९ । “महार्हाभरणोपेतौ विरजोऽम्बरधारिणौ ॥”)
महापूजायोग्यम् । यथा, रामायणे । १ । ६६ । १० । “यस्माद्भागार्थिनो भागान् नाकल्पयत मे सुराः । वराङ्गाणि महार्हाणि धनुषा शातयामि वः ॥” “महार्हाणि महापूजायोग्यानि ।” इति तट्टी- कायां रामानुजः ॥)