वाचस्पत्यम्
महावरोह || पु० महान् अवरोहोऽस्य । वटवृक्षे राजनि० ।
शब्दकल्पद्रुमः
महावरोहः || पुं, (महान् अवरोहः शिफानां अधोऽवतरणं यस्य ।) प्लक्षवृक्षः । इति राज- निर्घण्टः ॥ (विशेषोऽस्य प्लक्षशब्दे ज्ञातव्यः ॥)