वाचस्पत्यम्
महावल्ली || स्त्री कर्म० । माधवीलतायाम् शब्दच० ।
शब्दकल्पद्रुमः
महावल्ली || स्त्री (महती चासौ वल्ली चेति ।)
माधवीलता । इति शब्दचन्द्रिका ॥ (उत्तमा लता च । यथा, कथासरित्सागरे । ३३ । ८५ । “उपायरससंसिक्ता देशकालोपबृंहिता । सेयं नीतिमहावल्ली किं नाम न फलेत् फलम् ॥”)