वाचस्पत्यम्
महाविष || पु० ६ ब० । द्विमुखसर्पे जटा० ।
शब्दकल्पद्रुमः
महाविषः || पुं, (महत् अत्युत्कटं विषमस्य ।)
द्बिमुखसर्पः । यथा, —
“महाविषः कालसर्पो राजाहिर्द्बिमुखोरगः ।” इति जटाधरः ॥ (महाविषविशिष्टे, त्रि । यथा, सुश्रुते कल्प- स्थाने ८ अध्याये । “त्रिविधा वृश्चिकाः मन्दमध्यमहाविषाः ।” (महद् विषम् । महाविषे, क्ली । यथा, सुश्रुते कल्पस्थाने २ अध्याये । “महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् ॥”)