वाचस्पत्यम्
महाविषुव || न० । रवेमेषसंक्रमणे । तत्संक्रमणञ्च स्वरूपतः संक्रमणं प्रभापुञ्जस्य संक्रमणं वा । तत्र प्रभापुञ्जसंक्र- मणमयनांशानुसारेण अष्टमासाधिकषट्षष्टिवत्सरैरेकै- कांशं परित्यज्य ततः पश्चात्पश्चात्तरादौ स्थाने भवति इदानीं च पञ्चादयनं पूर्वायने तु पूर्वपूर्वतरादौ स्थाने भविष्यति । इत्यतस्तच्चलमनियतस्थानत्वात् स्वरूपसंक्रमस्तु स्थिरः सर्वदैकस्थाने जायमानत्वात् । अयनसंक्रामिशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
महाविषुवं || क्ली (विषु साम्यमस्त्यत्रेति । विषु + “वप्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम् ।” ५ । २ । १०९ । इत्यस्य वार्त्तिकात् वप्रत्ययः । महच्च तत् विषुवञ्चेति । अस्मिन् समये दिवा- रात्र्योः समत्वात्तथात्वम् ।)
मेषसंक्रान्तिः । यथा, —
“महाविषुवमाख्यातं कृतिभिश्चैत्रचिह्नितम् ॥” इति शब्दरत्नावली ॥ तस्मिन् मसूरनिम्बपत्रद्वयभक्षणम् । यथा, कृत्य- चिन्तामणौ । “मसूरं निम्बपत्राभ्यां योऽत्ति मेषगते रवौ । अपि रोषान्वितस्तस्य तक्षकः किं करिष्यति ॥” तत्र शक्त्वादिदानं यथा, —
“मेषादौ शक्तवो देया वारिपूर्णा च गर्गरी ॥” वारिपूर्णघटदानमन्त्रादि यथा, —
“एष धर्म्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः । अस्य प्रदानात् सफला मम सन्तु मनोरथाः ॥ वैशाखे यो घटं पूर्णं सभोज्यं वै द्बिजन्मने । ददाति सुरराजेन्द्र ! स याति परमां गतिम् ॥” महार्णवे । “यो ददाति हि मेषादौ शक्तूनम्बुघटान्वितान् । पितॄनुद्दिश्य विप्रेभ्यः सर्व्वपापैः प्रमुच्यते ॥” तत्र छत्रपादुकादानं यथा, “विप्रेभ्यः पादुकाच्छत्रं पितृभ्यो विषुवे शुभम् ।” पितृभ्यः पितॄनुद्दिश्येत्यर्थः । इति तिथ्यादि- तत्त्वम् ॥