संस्कृत-शब्दकोशः

महाविष्णु महावीज्य

महावीचि

वाचस्पत्यम्

महावीचि ||‍ पु० नास्ति वीचिः सुखं यत्र स अवीचिः कर्म० । १ सुखरहिते, “यत्र कल्लोलेन नीयते” इत्युक्ते २ नरकभेदे च ।


शब्दकल्पद्रुमः

महावीचिः || पुं, (न विद्यते वीचिः सुखं यत्र । महानवीचिरत्र ।)
नरकविशेषः । यथा, मनुः । “नरकं कालसूत्रञ्च महानरकमेव च । सञ्जीवनं महावीचिं तपनं संप्रतापनम् ॥” यातीति पूर्ब्बवचनस्थमनुवर्त्तते । “महावीचिर्यत्र महाकल्लोलेन तु नीयते ॥” इति प्रायश्चित्तविवेकः ॥



Correction: