संस्कृत-शब्दकोशः

महाविषुवचक्रं महावीचि

महाविष्णु

शब्दकल्पद्रुमः

महाविष्णुः || पुं, (महांश्चासौविष्णुः सर्व्वव्यापकश्चेति ।)
महाविराट् । यथा । ‘यस्या जले कोटिकोटि- ब्रह्माण्डानि महाविष्णुरोमकूपगतानि तस्या विरजायाः परिखाभूताया उपरि महावैकुण्ठ- लोकः । तस्योर्द्धभागे गोलोकः । तस्य नाथः कृष्णो देवलीलः स परिवारेण वर्त्तते । इति भागवतामृतकणिका । स च श्रीकृष्णस्य कला- विशेषः । यथा, —
“विष्णुर्महान् स इह यस्य कलाविशेषो गोविन्दमादिपुरुषं तमहं भजामि ॥” इति भागवतामृतपूर्ब्बखण्डः ॥



Correction: