वाचस्पत्यम्
महा(बी)वीर || पु० कर्म० । १ गरुडे २ हनुमति ३ सिंहे ४ यज्ञाग्नौ ५ वज्रे ६ श्वेततुरङ्गे ७ सञ्चालखगे च मेदि० । ८ शेषजिने च ९ कोकिले हेम० । १० धनुर्द्धरे ११ एकवीरवृक्षे राजनि० १२ महाशूरे पु० १३ क्षीरकाकोलीवृक्षे स्त्री रत्नमा० । १४ यज्ञसाधने मृण्मये पात्रभेदे तन्निर्माणविधिः कात्या० श्रौ० २६ । १ सूत्रादौ दृश्यः ।
शब्दकल्पद्रुमः
महावीरः || पुं, (वीन् पक्षिण ईरयतीति । ईर + कः । ततो महांश्चासौ वीरश्चेति ।)
गरुडः । वीरयतीति । वीर + कः । महान् वीर इति कर्म्मधारयः । सूरः । सिंहः । मखानलः । (स च मनुपुत्त्रविशेषः । यथा, श्रीभागवते । ५ । १२५ । “अग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतो- घृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति ॥”)
वज्रः । श्वेततुरङ्गः । सञ्चानपक्षी । इति मेदिनी । रे, २८९ ॥ अन्तिमजिनः । (अयमेव सिद्धार्थस्य त्रिशलागर्भजातः पुत्त्रः । तद्बिवरणं यथा, अरिष्टनेमिपुराणान्तर्गतजैनहरिवंशे । “सर्व्वार्थश्रीमतीजन्मा तस्मिन् सर्व्वार्थदर्शनः । सिद्धार्थोऽभवदर्काभो भूपः सिद्धार्थपौरुषः ॥ यत्र पाति धरित्रीयमभूदेकत्रदोषिणी । धर्म्मार्थिन्योऽपि यत्त्यक्तपरलोकभयाः प्रजाः ॥ कस्तस्य तान् गुणानुद्यान्नरस्तुलयितुं क्षमः । वर्द्धमानगुरुत्वं यैः प्रापितः स नराधिपः ॥ उच्चैः कुलाद्रिसम्भूता सहजस्नेहवाहिनी । महिषी श्रीसमुद्रस्य तस्यासीत् प्रियकारिणी ॥ चेतश्चेटकराजस्य यास्ताः सप्तशरीरिजाः । अतिस्नेहाकुलञ्चक्रुस्तास्वाद्या प्रियकारिणी ॥ कस्तां योजयितुं शक्तस्त्रिशलां गुणवर्णनैः । या स्वपुण्यैर्महावीरप्रसवाय नियोजिता ॥ सर्व्वतोऽथ नमन्तीषु सर्व्वासु सुरकोटिषु । प्रभावान्निपन्तीषु नभसो वमुवृष्टिषु ॥ वीरेऽवतरति त्रातुं धरित्रीमसुधारिणः । तीर्थेनाच्युतकल्पोच्चैः पुष्पोत्तरविमानतः ॥ सा तं षोडशसुस्वप्नदर्शनोत्सवपूर्व्वकम् । दध्रे गर्भेश्वरं गर्भे श्रीवीरं प्रियकारिणी ॥ पञ्चसप्ततिवर्षाष्टमासमासार्द्धशेषकः । चतुर्थस्तु तदा कालो दुःखमः सुखमोत्तरः ॥ आषाढशुक्लषष्ट्यान्तु गर्भावतरणेऽर्हतः । उत्तराफाल्गुनीनीडमुडुराजद्विजश्रितः ॥ दिक्कुमारीकृताभिष्यां द्योतिमूर्त्तिर्घनस्तनीम् । प्रच्छन्नो भासयद्गर्भस्तां रविः प्रावृषं यथा ॥ नवमासेव्वतीतेषु स जिनोऽष्टदिनेषु च । उत्तराफाल्गुनीष्विन्दौ वर्त्तमानेऽजनि प्रभुः ॥ ततोऽन्त्यजिनमाहात्म्याल्लुठत्पीठकिरीटकाः । प्रणेमुरवधिज्ञाततद्वृत्तान्ताः सुरेश्वराः ॥ शङ्खभेरीहरिध्वानघण्टानिर्घोषघोषणम् । समाकर्ण्य सुरास्तूर्ण्णं घूर्णितार्णवराविणः ॥ सप्तानीकमहाभेदाः सस्त्रीकाः कृतभूषणाः । सेन्द्राश्चतुर्णिकायास्ते प्रापुः कुण्डपुरं पुरम् ॥ त्रिःपरीत्य पुरं देवाः पुरन्दरपुरःसराः । जिनमिन्दुमुखं देवं तद्गुरू च ववन्दिरे ॥ मातुः शिशुं विकृत्यान्यं सुप्तायाः सुरमायया । इन्द्राणी प्रणता नीत्वा जिनेन्द्रं हरये ददौ ॥ गृहीत्वा करपद्माभ्यां तमभ्यर्च्य चिरं हरिः । चक्रे नेत्रसहस्रोरुपुण्डरीकवनार्च्चितम् ॥ ततश्चन्द्रावदाताङ्गमिन्द्रस्तुङ्गमतङ्गजम् । शृङ्गौघमिव हेमाद्रेर्मुक्ताधो मदनिर्झरम् ॥ गण्डस्थलमदामोदभ्रमद्भ्रमरमण्डलम् । तमिवाधित्यकावस्थतमालवनमण्डितम् ॥ कर्ण्णान्तरततासक्तरक्तचामरसंहतिम् । तं यथाधित्यकाधीनरक्ताशोकमहावनम् ॥ सुवर्णरक्षया चार्व्या परिवेष्टितविग्रहम् । तमेव च यथोपात्तक्वणत्कनकमेखलम् ॥ अनेकरदसंवृत्तनृत्यसङ्गीतपोषितम् । तमिवोत्तुङ्गशृङ्गाग्रनृत्यद्गायत्सुराङ्गनम् ॥ सुवृत्तदीर्घसञ्चारिकररुद्धदिगन्तरम् । तमिवात्यायतिस्थूलस्फुरद्भोगभुजङ्गमम् ॥ ऐशानधारितस्फीतधवलातपवारणम् । तमिवोर्द्धस्थिताभ्यर्ण्णसम्पूर्णशशिमण्डलम् ॥ चामरेन्द्रभुजोत्क्षिप्तचलच्चामरहारिणम् । तं यथा चमरीक्षिप्तबालब्यजनवीजितम् ॥ ऐरावतं समारोप्य जिनेन्द्रं तस्य मण्डनम् । देवैः सह गतः प्राप मन्दरं स पुरन्दरः ॥ तं पाण्डुकवने रम्ये मन्दरस्य जिनं हरेः । पाण्डुकायां प्रसिद्धायां शिलायां सिंहविष्टरे ॥ संस्थाप्य विबुधानीतक्षीरसागरवारिभिः । शातकुम्भमयैः कुम्भैरभिषिच्य समं सुरैः ॥ वस्त्रालङ्कारमालाद्यैरलङ्कृत्य कृतस्तुतिः । आनीयमातुरुत्सङ्गे जिनं कृत्वा कृतोचितः ॥ सिद्धार्थप्रियकारिण्योः सममानन्ददायकम् । वर्द्धमानाख्यया स्तुत्वा स देवो वासवोऽगमत् ॥ मासान् पञ्चदशाजन्मद्युम्नधारा दिने दिने । याः पूर्ब्बमापतंस्ताभिस्तर्पितोऽर्थी जनोऽखिलः ॥ वर्द्धमानः सुरैः सेव्यो ववृधे स यथा यथा । पितृबन्धुत्रिलोकानामनुरागस्तथा तथा ॥ सुरासुरनराधीशमौलिमालार्चितक्रमः । त्रिंशद्बर्षप्रमाणोऽभूद्बीरो भोगैः परिष्कृतः ॥ शुद्धवृत्तं न भोगेषु चित्तं तस्य चिरं स्थिरम् । कुटिलेषु यथा सिंहनखरन्ध्रेषु मौक्तिकम् ॥ शान्तचित्तं कदाचित्तं स्वयं बुद्धमबोधयत् । नत्वा सारस्वतादित्यमुख्यालौकान्तिकाः सुराः ॥ सौधर्म्माद्यैः सुरैरेत्य कृतोऽभिषवपूजनः । आरुह्य शिविकां दिव्यामुह्यमानां सुरेश्वरैः ॥ उत्तराफाल्गुनीष्वेव वर्त्तमाने निशाकरे । कृष्णस्य मार्गशीर्षस्य दशम्यामगमद्बनम् ॥ अपनीय तनोः सर्व्वं वस्त्रमाल्यादिभूषणम् । पञ्चमुष्टिभिरुद्धूत्य मूर्द्धजानभवन् मुनिः ॥ केशकुन्तलसङ्घातं जिनस्य भ्रमरासितम् । प्रतिगृह्य सुराधीशो निदधौ दुग्धवारिधौ ॥ इन्द्रनीलचयेनेव क्षिप्तेनेन्द्रेण चात्यभात् । जिनेन्द्रकेशपुञ्जेन रञ्जितः क्षीरसागरः ॥ जिननिष्क्रमणं दृष्ट्वा तुष्टाः सर्व्वे नरामराः । कृत्वा तृतीयकल्याणपूजाञ्जग्मुर्यथायथम् ॥ मनःपर्य्ययपर्य्यन्तचतुर्ज्ञानमहेक्षणः । तपो द्बादशवर्षाणि चकार द्वादशात्मकम् ॥ विहरन्नथ नाथोऽसौ गुणग्रामपरिग्रहः । ऋजुकूलापगाकूले जृम्भिकग्राममीयिवान् ॥ तत्रातापनयोगस्थः शालाभ्यासशिलातले । वैशाखशुक्लपक्षस्य दशग्यां षष्ठमाश्रितः ॥ उत्तराफाल्गुनीं प्राप्ते शुक्लध्यानी निशाकरे । निहत्य घातिसङ्घातं केबलज्ञानमाप्तवान् ॥ केबलस्य प्रभावेण सहसा चलितासनाः । आगत्य महिमां चक्रुस्तस्य सर्व्वे सुरासुराः ॥ षट्षष्टिदिवसान् भूयो मौनेन विहरन् विभुः । आजगाम जगत्ख्यातं जिनो राजगृहं पुरम् ॥ आरुरोह गिरिं तत्र विपुलं विपुलश्रियम् । प्रबोधार्थं स लोकानां भानुमानुदयं यथा ॥ ततः प्रबुद्धवृत्तान्तैरापतद्भिरितस्ततः । जगत्सुरासुरैर्व्यापि जिनेन्द्रस्य गुणैरिव ॥ सौधर्म्माद्यैस्तदा देवैः परीतोऽभात् स भूधरः । नाभेयाधिष्ठितः पूर्ब्बं यथाष्टापदपर्व्वतः ॥ चतुराशामुखद्बारस्थितद्बादशगोपुरम् । कृतं रत्नमयं देवैः प्राकारबलयत्रयम् ॥ जाते योजनविस्तीर्णे शरणे समवादिके । विभागा द्वादशाभासन्नभःस्फाटिकभित्तयः ॥ प्रातिहार्य्यैर्युतोऽष्टाभिश्चतुस्त्रिंशन्महाद्भुतैः । तत्र देवैर्वृतोऽभासीज्जिनश्चन्द्र इव ग्रहैः ॥ इन्द्राग्निवायुभूत्याख्याः कौण्डिन्याख्याश्च पण्डिताः । इन्द्रनोदनयायाताः समवस्थानमर्हतः ॥ प्रत्येकं सहिताः सर्व्वे शिष्याणां पञ्चभिः शतैः । त्यक्ताम्बरादिसम्बन्धाः संयमं प्रतिपेदिरे ॥ सुता चेटकराजस्य कुमारी चन्दना तदा । घौतैकाम्बरसंवीतायातार्याणां पुरःसरी ॥ श्रेणिकोऽपि च संप्राप्तः सेनया चतुरङ्गया । सिंहासनोपविष्टं तं प्रणनाम जिनेश्वरम् ॥ छत्त्रचामरभृङ्गारैः कलसध्वजदर्पणैः । व्यजनैः सुप्रतीकैश्च प्रसिद्धैरष्टमङ्गलैः ॥ स्रजाचक्रदुकूलाब्जगजसिंहवृषध्वजैः । गरुडध्वजसंयुक्तैरष्टभेदैर्म्महाध्वजैः ॥ मानस्तम्भैस्तथास्तूपैश्चतुर्भिश्च महावनैः । वाप्यम्भोरुहखण्डैश्च वल्लीवनलतागृहैः ॥ तैस्तैर्देवैः कृतैः सर्व्वैरन्यैश्चातिशयैस्तथा । यथा स्थानस्थितैर्ज्जैनी समवस्थानभूरभूत् ॥ अथेन्दोरिव शुक्राद्या निषण्णा गुर्व्वधिष्ठिताः । साधवोऽभाञ्जिनस्यान्ते जातरूपाच्छविग्रहाः ॥ ततः कल्पनिवासिन्यो देव्यः कल्पलताभुजः । मेरोरिव जिनस्यान्ते ता बभुर्भोगभूमयः ॥ ततोऽलङ्कृतनारीभिरार्य्यिकाततिराबभौ । स्फुरद्विद्युद्भिराश्लिष्टा शारदीव घनावली ॥ ज्योतिर्देवस्त्रियो तच्च रेजुरुज्ज्वलमूर्त्तयः । तास्तारा इव संक्रान्ताः समवस्थानसागरे ॥ कान्ताव्यन्तरदेवानां ततस्तत्र विरेजिरे । करकुट्मलहारिण्यः साक्षादिव वनश्रियः ॥ ततो नागकुमारादिदेव्यो नागफणोज्ज्वलाः । नागलोकसमायाता नागवल्य इवा बभुः ॥ ततोऽप्यग्निकुमाराद्याः देवाः पातालवासिनः । ज्वलितोज्ज्वलवेषास्ते दशभेदा बभासिरे ॥ ततः किन्नरगन्धर्व्वयक्षकिंपुरुषादयः । षोडशार्द्धविकल्पास्ते व्यन्तराश्च चकासिरे ॥ सप्रकीर्णकनक्षत्रसूर्य्याचन्द्रमसोर्ग्रहाः । पञ्चभेदास्तदानल्पवपुषो ज्योतिषो बभुः ॥ मौलिकुण्डलकेयूरप्रालम्बकटिसूत्रिणः । हारिणः कल्पवृक्षाभास्ततोऽभान् कल्प- वासिनः ॥ सपुत्त्रानमितानेकविद्याधरपुरःसराः । न्यषीदन्मानुषा नानाभाषावेशरुचस्ततः ॥ ततो हि नकुलेभेन्द्रहर्यश्वमहिषादयः । जिनानुभावसम्भूतविश्वाद्याः स्वामिनो बभुः ॥ इति द्वादशभेदेषु परीतिं विनुतिं नतिम् । गणेषु प्रथमं कृत्वा स्थितेषु परितो जिनम् ॥ प्रत्यक्षीकृतविश्वार्थं कृतदोषत्रयक्षयम् । जिनेन्द्रं गौतमोऽपृच्छत्तीर्थार्थं पापनाशनम् ॥ स दिव्यध्वनिना विश्वसंशयछेदिना जिनः । दुन्दुभिध्वनिधीरेण योजनान्तरयायिना ॥ श्रावणस्यासिते पक्षे नक्षत्रेऽभिजिते प्रभुः ॥ प्रतिपद्यह्नि पूर्ब्बाह्णे शासनार्थमुदाहरत् ॥ आचाराङ्गस्य तत्त्वार्थं तथा सूत्रकृतस्य च । जगाद भगवान् वीरः संस्थानसमवाययोः ॥ व्याख्या प्रज्ञप्तिहृदयं ज्ञातृधर्म्मकथास्थितम् । श्रावकाध्यनस्यार्थमन्तकृद्दशगोचरम् ॥ अनुत्तरदशस्यार्थं प्रश्नव्याकरणस्य च । तथा विपाकसूत्रस्य पवित्रार्थं ततः परम् ॥ त्रिषष्टिः त्रिशती यत्र दृष्टीनामभिधीयते । दृष्टिवादस्य तस्यार्थं पञ्चभेदस्य सर्व्वदृक् ॥ जगाद जगतां नाथः प्रथमं परिकर्म्मणः । सूत्रस्याद्यानुयोगस्य तथा पूर्ब्बगतस्य च ॥ उत्पादपूर्ब्बपूर्ब्बस्य परमार्थं ततः परम् । अग्रायणीयपूर्ब्बार्थमग्रणीरभणद्विदाम् ॥ वीर्य्यप्रवादपूर्ब्बार्थमस्तिनास्तिप्रवादजम् । ज्ञानसत्यप्रवादार्थमात्मकर्म्मप्रवादयोः ॥ प्रत्याख्यानस्य विद्यानुवादकल्याणपूर्ब्बयोः । प्राणावायस्य पूर्ब्बस्य तत्त्वार्थं तदनन्तरम् ॥ क्रियाविशालपूर्ब्बस्य विशालार्थमशेषवित् । सल्लोकबिन्दुसारार्थं चूलिकार्थं सवस्तुकम् ॥ अङ्गप्रविष्टतत्त्वार्थं प्रतिपाद्य जिनेश्वरः । अङ्गवाह्यमवोचत्तत्प्रतिपाद्यार्थरूपतः ॥ सामायिकं यथार्थाख्यं स चतुर्विंशतिस्तवम् । वन्दनाञ्च ततः पूतां प्रतिक्रमणमेव च ॥ वैनयिकं विनेयेभ्यः कृतिकर्म्म ततोऽवदत् । दशवैकालिकां पृथ्वीमुत्तराध्ययनं तथा ॥ तं कल्पव्यवहारञ्च कल्पाकल्पं * * * कल्पञ्च पुण्डरीकञ्च सुमहापुण्डरीककम् ॥ तथा निषद्यकां प्रायः प्रायश्चित्तोपवर्णनम् । जगत्त्रयगुरुः प्राह प्रतिपाद्यं हितोद्यतः ॥ मत्पादे केबलां तस्य स्वरूपं विषयं फलम् । अपरोक्षपरोक्षस्य ज्ञानस्योवाच संख्यया ॥ मार्गणास्थानभेदैश्च गुणस्थानविकल्पनैः । जीवस्थानप्रभेदैश्च जीवद्रव्यमुपादिशत् ॥ सत्संख्याद्यानुयोगैश्च सन्नामाद्यैः किमादिभिः द्रव्यं स्वलक्षणैर्भिन्नं पुद्गलादित्रिलक्षणम् ॥ द्विविधं कर्म्मबन्धञ्च सहेतुं सुखदुःखदम् । मोक्षं मोक्षस्य हेतञ्च फलं चाष्टगुणात्मकम् ॥ बन्धमोक्षफलं यत्र भुज्यते तत्त्रिधाकृतम् । अन्तस्थितं जगौ लोकमलोकञ्च बहिःस्थितम् ॥ अथ सप्तर्षिसम्पन्नं श्रुतार्थं जिनभाषितम् । द्वादशाङ्गश्रुतं स्कन्धं सोपाङ्गं गौतमो व्यधात् ॥ त्रैलोक्यं संसदि स्पृष्टं जिंनार्कवचनांशुभिः । मुक्तमोहमहानिद्रं सुप्तोत्थितमिवाबभौ ॥ जिनभाषाधरस्यन्दमन्तरेण विजृम्भिता । तिर्य्यग्देवमनुष्याणां दृष्टिमोहमनीनशत् ॥ ततो जिनोक्ततत्त्वार्थमार्गश्रद्धा च लक्षणम् । शङ्काकाङ्क्षानिदानादिकलङ्कविगमोज्ज्वलम् ॥ सम्यग्दर्शनसद्रत्नं ज्ञानालङ्कारनायकम् । स्वकर्णहृदयेष्वेकं पिनद्धमखिलाङ्गिभिः ॥ कायेन्द्रियगुणस्थानजीवस्थानकुलायुषाम् । भेदाद्यो निर्व्विकल्पांश्च निरूप्यागमचक्षुषा ॥ क्रियासु स्थानपूर्ब्बासु वधादिपरिवर्ज्जनम् । षण्णां जीवनिकायानामहिंसाद्यं महव्रतम् ॥ चक्षुर्गोचरजीवौघान् परिहृत्य यतेर्यतः । इर्य्यासमितिराद्या सा व्रतशुद्धिकरी मता ॥ त्यक्त्वा कार्कश्यपारुष्यं यतेर्यत्नवतः सदा । भाषणं धर्म्मकार्य्येषु भाषासमितिरिष्यते ॥ पिण्डशुद्धिविधानेन शरीरस्थितये तु यत् । आहारग्रहणं सास्यादेषणा समितिर्यतेः ॥ निक्षेपणं यदा दानमीक्षित्वा योग्यवस्तुनः । समितिः सा तु विज्ञेया निक्षेपादाननामिका ॥ शरीरान्तर्म्मलत्यागं प्रगतासु सुभूमिषु । यत्तत्समितिरेषा तु प्रतिष्ठायनिका मता ॥ एवं समितयः पञ्च गोप्यास्तिस्रस्तु गुप्तयः । वाङ्मनःकाययोगानां शुद्धरूपां प्रवृत्तयः ॥ चित्तेन्द्रियनिरोधश्च षडावश्यकसत्क्रियाः । शौचस्नानैकभक्तञ्च स्थितभुक्तिरचेलता ॥ भूमिशय्याव्रतं दन्तमलमार्ज्जनवर्ज्जनम् । तपः संयमचारित्रं परीषहजयः परः ॥ अनुप्रेक्षाश्च धर्म्मश्च क्षमादिदशलक्षणः । ज्ञानदर्शनचारित्रतपोविनयसेवनम् ॥ इति श्रवणधर्म्मोऽयं कर्म्मनिर्म्मोक्षहेतुकः । सुरासुरनराध्यक्षं जिनोक्तस्तं तदा नराः ॥ संसारभीरवः शुद्धजातिरूपेकुलादयः । सर्व्वसङ्गविनिर्मुक्ताः शतशः प्रतिपेदिरे ॥ सग्यग्दर्शनसंशुद्धाः शुद्धैकवसनावृताः । सहस्रशो दधुः शुद्धा नार्य्यस्तत्रार्य्यिकाव्रतम् ॥ पञ्चधाणुव्रतं केचित् त्रिविधञ्च गुणव्रतम् । शिष्याव्रतं चतुर्भेदं तत्र स्त्रीपुरुषा दधुः ॥ तिर्य्यञ्चोऽपि यथाशक्ति नियमेष्ववतस्थिरे । देवाः सद्दर्शनज्ञानजिनपूजासु रेमिरे ॥ श्रेणिकेन तु यत् पूर्ब्बं बह्वारम्भपरग्रहात् । परस्थितिक्रमारब्धं नारकायुस्तमस्तमे ॥ तत्तु क्षायिकसम्पक्त्वात् स्वस्थितिं प्रथमक्षितौ । प्रापद् वर्षसहस्राणामशीतिं चतुरुत्तराम् ॥ त्रयस्त्रिंशत् समुद्राः क्व क्व चेयमपरास्थितिः । अहो क्षायिकसम्पक्त्वप्रभावोऽयमनुत्तरः ॥ अक्रूरो वारिषेणो यो यो मयः स तथापरे । कुमारा मातरश्चैषां पराश्चान्तःपुरस्त्रियः ॥ सम्पक्त्वं शीलसद्दानं प्रौषधं जिनपूजनम् । प्रतिपद्य विनेमुस्तं जिनेन्द्रं त्रिजगद्गुरुम् ॥ ततः प्रणम्य देवेन्द्रा जिनेन्द्रं स्तोत्रपूर्ब्बकम् । यथायथं ययुर्युक्ता निजवर्गैर्निजास्पदम् ॥ श्रेणिकोऽपि गुणश्रेणीमुच्चकैरभिरूढवान् । अभिष्टुत्य जिनं नत्वा प्रविष्टसुष्टधीपुरम् ॥ निःसरद्भिर्व्विशद्भिश्च सभा जैनी जनोर्म्मिभिः । चुक्षोभ क्षुभितैर्वेला नदीपूरैरिवाम्बुधिः ॥ आकीर्णमेव तैर्न्नित्यं सभामण्डलमर्हतः । हीयते वा कदा स्फीतिं भानुभिर्भानुमण्डलम् ॥ नोदयास्तमितं तत्र ज्ञायते ब्रध्नमण्डलम् । धर्म्मचक्रप्रभाचक्रप्रभामण्डलरोचिषाम् ॥ तत्र तीर्थकरः कुर्व्वन् प्रत्यहं धर्म्मदेशनम् । सेवितः श्रेणिकेनास्य न हि तृप्तिस्त्रिवर्गजा ॥ गौतमञ्च समासाद्य तदा तदुपदेशतः । सर्व्वानुयोगमार्गेषु प्रवीणः स नृपोऽभवत् ॥ ततो जिनगृहैस्तुङ्गैराज्ञा राजगृहं पुरम् । कृतमन्तर्बहिव्याप्तमजस्रं महिमोत्सवैः ॥ कृतः सामन्तसंघातैर्महामन्त्रिपुरोहितैः । प्रजाभिर्जिनगेहाढ्यो मगधो विषयोऽखिलः ॥ पुरेषु ग्रामघोषेषु पर्व्वताग्रे ह्यदृश्यत । नदीतटवनान्तेषु तदा गृहजिनावली ॥ तिष्ठन्नेव महोदये विघटयन्मोहान्धकारोन्नतिं प्राग्देशप्रजया विधाय मगधादेशं प्रबुद्धप्रजम् । तद्धृत्या पृथुदेशमध्यमगमन्मध्यन्दिनश्रीधरं मिथ्याज्ञानहिमान्तकृज्जिनरविर्बोधप्रभा- मण्डलः ॥”)
कोकिलः । इति हेमचन्द्रः ॥ धनुर्धरः । इति शब्दरत्नावली ॥ एकवीरवृक्षः । इति राज- निर्घण्टः ॥ लक्ष्मणः । यथा, —
“लक्ष्मणञ्च महावीरं पतितं रणभूतले ॥” अङ्गदादिः । यथा, —
“अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ॥” इति तन्त्रसारे हनूमत्कल्पः ॥ हनूमान् स्वयमपि महावीरत्वेन प्रसिद्धः ॥