संस्कृत-शब्दकोशः

महावीरा महावीर्या

महावीर्य

वाचस्पत्यम्

महा(बी)वीर्य्य ||‍ पु० ६ ब० । १ वाराहीकन्दे राजनि० । २ परमा- त्मनि च शब्दर० । ३ अतिबलयुते त्रि० । ४ वनकार्पास्यां स्त्री राजनि० । ५ संज्ञायां सूर्य्यपत्न्याञ्च स्त्री त्रिका० ।


शब्दकल्पद्रुमः

महावीर्य्यः || पुं, (महत् विश्वसृष्टये विपुलं वीर्य्य- मस्य ।)
ब्रह्मा । इति शब्दरत्नावली ॥ (महत् वीर्य्यं तपोबलमस्य ।)
बुद्धभेदः । इति त्रिकाण्ड- शेयः ॥ वाराहीकन्दः । इति राजनिर्घण्टः ॥ (वितथस्य पुत्त्रभेदः । यथा, भागवते । ९ । २१ । १ । “वितथस्य सुतान्मन्योर्बृहत् क्षत्त्रो जयस्ततः । महावीर्य्यो नरो गर्गः संकृतिस्तु नरात्मजः ॥”)
अतिशयबलयुक्ते, त्रि ॥ (यथा, महामारते । ५ । १७६ । ४६ । “ततः किल महावीर्य्यो भीष्मः शान्तनवो नृपान् । अधिक्षिप्य महातेजास्त्रिस्रः कन्या जहार ताः ॥” विराजः पुत्त्रः । यथा, विष्णुपुराणे । २ । १ । ३९ । “नरो गयस्य तनयस्तत्पुत्त्रोऽभूद्विराट् ततः । तस्य पुत्त्रो महावीर्य्यो धीमांस्तस्मादजायत ॥”)



Correction: