वाचस्पत्यम्
महावृक्ष || पु० कर्म० । १ स्वुहीवृक्षे हला० । २ वृहत्तरौ च ।
शब्दकल्पद्रुमः
महावृक्षः || पुं, (महान् वृक्षः ।)
स्नुहीवृक्षः । इति हलायुधः ॥ (यथास्य पर्य्यायः । “वज्रवृक्षो महावृक्षः स्नुही स्नुच्च सुधा गुडा ॥” यथा, सुश्रुते सूत्रस्थाने ४४ अध्याये । “महावृक्षपयःपीतैर्यवागूस्तण्डुलैः कृता । पीता विरोचयत्याशु गुडेनोत्कारिका कृता ॥”)
बृहद्वृक्षश्च ॥