वाचस्पत्यम्
महाव्याधि || पु० कर्म० । महारोगे कुष्ठादौ रोगे ।
शब्दकल्पद्रुमः
महाव्याधिः || पुं, (महांश्चासौ व्याधिश्चेति ।)
महारोगः । स तु कुष्ठादिः । यथा, —
“सर्व्वव्याधिविनिर्मुक्तो महाव्याधिर्विशेषतः । पठनात् संप्रणश्येत्तु जीवन्मुक्तो भवेन्नरः ॥” इति ब्रह्मयामले गायत्त्रीकवचम् ॥