शब्दकल्पद्रुमः
महाशक्तिः || पुं, (महत्यः शक्तयः मातृगणादयो महद्वा सामर्थ्यञ्च यस्य ।) कार्त्तिकेयः । इति शब्दमाला ॥ (महती शक्तिः ।) अतिशयपरा- क्रमः । महतीशक्तिरस्य तद्युक्ते, त्रि ॥