वाचस्पत्यम्
महाशय || त्रि० महान् उदार आशयो यस्य । महानुभावे अमरः ।
शब्दकल्पद्रुमः
महाशयः || त्रि महान् आशयोऽभिप्रायो मनो वा यस्य सः । इति भरतः ॥ तत्पर्य्यायः । महेच्छः २ । इत्यमरः । ३ । १ । ३ ॥ महानु- भावः ३ । इति शब्दरत्नावली ॥ उदात्तः ४ महामनाः ५ । इति जटाधरः ॥ उद्भटः ६ उदारः ७ उदीर्णः ८ महात्मा ९ । इति हेम- चन्द्रः । ३ । १३१ ॥ (यथा, कथासरित्सागरे । ७२ । १२८ । “दैवात्प्रबुद्धः शुश्राव स वराहो महाशयः ॥” महान् आशयो जलानामाधारः ।)
समुद्रे, पुं । इति शब्दरत्नावली ॥