वाचस्पत्यम्
महाश्यामा || स्त्री कर्म० । १ श्यामालतायां रत्नमा० । २ शिं- शपाभेदे राजनि० ।
शब्दकल्पद्रुमः
महाश्यामा || स्त्री (महती चासौ श्यामा च ।)
श्यामालता । इति रत्नमाला ॥ शिंशपा- वृक्षः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते सूत्रस्थाने ३८ अध्याये । “श्यामामहाश्यामातृ- वद्दन्तीत्यादि ॥” वृक्षपादिवृक्षः । तत्पर्य्यायो यथा, —
“कण्टकाख्या महाश्यामा वृक्षपादीति वक्ष्यते ॥” इति गारुडे २०८ अध्याये ॥)