वाचस्पत्यम्
महाश्वेता || स्त्री कर्म० । १ सरस्वत्याम् त्रिका० २ कृष्णभूमि- कुष्माण्डे च अमरः ।
शब्दकल्पद्रुमः
महाश्वेता || स्त्री (महत्यतिशया श्वेता । महान् श्वेतो वर्णो यस्या वा ।)
सरस्वती । इति त्रिकाण्डशेषः ॥ कृष्णभूमिकुष्माण्डः । तत्पर्य्यायः । क्षीरविदारी २ ऋक्षगन्धिका ३ । इत्यमरः । २ । ४ । ११० ॥ क्षीरविदारिका ४ क्षीरवल्ली ५ क्षीरकन्दा ६ । इति जटाधरः ॥ क्षीरिका ७ । इति शब्दरत्नावली ॥ श्वेतापराजिता । इति रत्नमाला ॥ (पर्य्यायोऽस्या यथा, —
“गिरिकर्णी महाश्वेता स्थूलपुष्पा सिता क्वचित् ॥” इति वैद्यकरत्नमालायाम् ॥)
सिता । तत्पर्य्यायः । मधुजा २ । इति त्रिकाण्ड- शेषः ॥ श्वेतकिणिहीवृक्षः । इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्या यथा, —
“कटभी किणिही श्वेता महाश्वेता च रोहिणी ॥”)
दुर्गा । यथा, देवीपुराणे ४५ अध्याये । “श्वेतं शुक्लं शिवस्थानं यस्माच्चेह समागता । महाभावसमुत्पन्ना महाश्वेता ततः स्मृता ॥” (किम्पुरुषवर्षस्थितहंसनामकगन्धर्व्वराजस्य गौरीगर्भोत्पन्ना कन्या । तत्कथा कादम्बर्य्यां विस्तरशो द्रष्टव्या ॥)