शब्दकल्पद्रुमः
महासफरः || पुं, (महांश्चासौ सफरश्च ।) बृहत् प्रोष्ठीमत्स्यः । अस्य गुणाः । यथा, — “महासफरसंज्ञस्तु तिक्तः पित्तकफापहः । शिशिरो मधुरो रुच्यो वातसाधारणः स्मृतः ॥” इति भावप्रकाशः ॥