संस्कृत-शब्दकोशः

महासह महासान्तपन

महासहा

शब्दकल्पद्रुमः

महासहा || स्त्री (महासह + स्त्रियां टाप् ।)
माषपर्णी । (पर्य्यायोऽस्या यथा, —
“सिंहपुच्छी ऋषिप्रोक्ता माषपर्णी महासहा । कृष्णवृन्ता च काम्बोजी पाण्डुलोमशपर्णिनी ॥” इति वैद्यकरत्नमालायाम् ॥ पर्य्यायान्तरं यथा, —
“माषपर्णी सूर्य्यपर्णी काम्बोजी हयपुच्छिका । पाण्डुलोमशपर्णी च कृष्णवृन्ता महासहा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अम्लानवृक्षः । इत्यमरः । २ । ४ । ७३ । (कुब्जकः । तत्पर्य्यायो यथा, —
“कुब्जको भद्रतरुणी बृहत्पुष्पोऽतिकेशरः । महासहा कण्टकाढ्या नीलालिकुलसङ्कुला ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: