संस्कृत-शब्दकोशः

महाहनु महाहास

महाहविस्

शब्दकल्पद्रुमः

महाहविः || [स्] क्ली, (महत् सुप्रशस्तं हविः ।)
गव्यघृतम् । यथा, —
“गयायामथवा पिण्डं खड्गमांसं महाहविः । कालशाकं तिलाज्यं वा कृशरं मासतृप्तये ॥” इति मार्कण्डेयपुराणे श्राद्धकल्पः ॥ (तदात्मतया सर्वं जगत् हूयतेऽस्मिन् । यद्बा, महान्ति हवींषि आज्यपुरोडाशादिरूपा- ण्यस्य ।)
विष्णुः ॥ इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥ (महान्तिहवींष्यत्र । बृहद्यागविशेषः । यथा, शतपथब्राह्मणे । २ । ५ । ३ । २० । “अथातो महाहविष एव तद् यथा महा- विषस्तथो तस्य ॥” “साकमेधेषु प्रधानभूताया महाहविराख्याया इष्टेरारम्मं प्रतिजानीते अथात इति ।” इति तद्भाष्यम् ॥”)



Correction: