संस्कृत-शब्दकोशः

महाह्रस्वा महिका

महि

वाचस्पत्यम्

महि(ही) ||‍ स्त्री मह—इन् वा ङीप् । १ पृथिव्याम् । ङीबन्तस्तु मालवदेशस्थे २ नदीभेदेऽपि ।


शब्दकल्पद्रुमः

महिः || स्त्री (मह्यते इति । महपूजायां अदन्त- चुरादिः + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।)
पृथिवी । इति शब्दमाला ॥ (महत् । यथा, ऋग्वेदे । २ । २४ । १४ । “सत्यो मन्युर्महि कर्म करिष्यतः ॥” “महि महत् कर्म्म करिष्यतः ।” इति तद्भाष्ये सायनः ॥ महिमा । यथा, भागवते । ८ । ८ । ४ । “तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः । दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् भगवतो महिम् ॥” “महिं महिमानम् ।” इति तट्टीकायां श्रीधरः ॥ महत्तत्त्वम् । यथा, भागवते । २ । १ । ३५ । “विज्ञानशक्तिं महिमामनन्ति ॥” “महिं महत्तत्त्वम् ।” इति तट्टीकायां श्रीधरः ॥)



Correction: