संस्कृत-शब्दकोशः

महिका महिन

महित

शब्दकल्पद्रुमः

महितं || त्रि (मह्यते स्मेति । मह पूजायाम् + “मतिबुद्धिपूजार्थेभ्यश्च ।” ३ । २ । १८८ । इति क्तः ।)
पूजितम् । यथा, भट्टिः । १० । २ । रणपण्डितोऽग्र्यविबुधारिपुरे कलहं स राममहितः कृतवान् । ज्वलदग्निरावणगृहञ्च बलात् कलहंसराममहितः कृतवान् ॥” (पितृगणविशेषः । यथा, मार्कण्डेये । ९६ । ४६ । “महान्महात्मा महितो महिमावान्महाबलः । गणाः पञ्च तथैवेते पितॄणां पापनाशनाः ॥” स्त्रियां टाप् । नदीभेदः । यथा, महाभारते । ६ । ९ । २१ । “नीवारां महिताञ्चापि सुप्रयोगां जना- धिप ! ॥”)



Correction: