वाचस्पत्यम्
मही is an alternate of महि. महि(ही) || स्त्री मह—इन् वा ङीप् । १ पृथिव्याम् । ङीबन्तस्तु मालवदेशस्थे २ नदीभेदेऽपि ।
शब्दकल्पद्रुमः
मही || स्त्री (मह्यते इति । मह् + अच् । मह + “गौरादिभ्यश्च । ४ । १ । ४१ । इति ङीष् । यद्वा, महि । कृदिकारादिति ङीष् ।)
पृथिवी । इत्यमरः । २ । १ । ३ । (यथा विष्णुपुराणे । १ । ४ । २९ । “उत्तिष्ठतस्तस्य जलार्द्रकुक्षे र्महावराहस्य महीं विधार्य्य । विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयो जुषन्ति ॥”)
नदीविशेषः । सा च मालवदेशे वर्त्तते । इति मेदिनी । हे, । ७ ॥ तज्जलगुणाः । “महीजलन्तु सुस्वादु बल्यं पित्तहरं गुरु ।” इति राजनिर्घण्टः ॥ गौः । इति जटाधरः ॥ हिलमोचिका । इति त्रिकाण्डशेषः ॥ (लोकः । यथा, ऋग्वेदे । ३ । ५६ । २ । “तिस्रो महीरुपरास्तस्थुः ॥” “महीः लोकाः ।” इति तद्भाष्ये सायनः ॥)