शब्दकल्पद्रुमः
महीसुतः || पुं, (मह्याः सुतः ।) मङ्गलः । इत्य- मरः । १ । ३ । २५ ॥ (यथा, बृहत्संहि- तायाम् । १०४ । १४ । “रिपुगदकोपभयानि पञ्चमे तनयकृताश्च शुचो महीसुते । द्युतिरपि नास्य चिरं भवेत् स्थिरा शिरसि कपेरिव मालती कृता ॥”)