संस्कृत-शब्दकोशः

महेन्द्रपुरी महेन्द्राणी

महेन्द्रवारुणी

वाचस्पत्यम्

महेन्द्रवारुणी ||‍ स्त्री महेन्द्रश्च वरुणश्च तयोरिथं प्रियत्वात् अण् देवताद्वन्द्वे उत्तरपदवृद्धिः कर्म० । (वडमाकाल) लताभेदे राजनि० ।


शब्दकल्पद्रुमः

महेन्द्रवारुणी || स्त्री (महेन्द्रवरुणयोरियं प्रिय- त्वात् । अण् । ङीष् ।)
लताविशेषः । वड माकाल इति भाषा ॥ तत्पर्य्यायः । चित्रवल्ली २ महाफला ३ महेन्द्री ४ चित्रफला ५ त्रपुसी ६ त्रपुसा ७ आत्मरक्षा ८ विशाला ९ दीर्घवल्ली १० महत्फला ११ महद्वारुणी १२ बृहत्फला १३ बृहद्वारुणी १४ सौम्या १५ गजचिर्भिटा १६ चित्रदेवी १७ धनुःश्रेणी १८ स्थाणुकर्णी १९ मरुसम्भवा २० । अस्या गुणाः । इन्द्रवारुणी- गुणभागित्वम् । रसे वीर्य्ये विपाके च किञ्चिद्- गुणाधिकत्वञ्च । इति राजनिर्घण्टः ॥



Correction: