संस्कृत-शब्दकोशः

महेन्द्राणी महेला

महेरणा

वाचस्पत्यम्

महेरणा ||‍ स्त्री महं गजोत्सवमीरयात ल्यु । शल्लकीवृक्षे अमरः ।


शब्दकल्पद्रुमः

महेरणा || स्त्री (महत् ईरणं प्रेरणमस्याः । यद्बा, महं गजोत्सवमीरयतीति । ईर + ल्युः । टाप् ।)
शल्लकीवृक्षः । इत्यमरः । २ । ४ । ३४ ॥ महेरुणा इत्यपि पाठः । इत्यमरटीकायां भरतः ॥ (यथास्याः पर्य्यायः । “शल्लकी गजभक्ष्या च सुवहा सुरभीरसा । महेरणा कुन्दुरुकी वल्लकी च बहुस्रवा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: