शब्दकल्पद्रुमः
महेश्वरी || स्त्री (महेश्वरस्य स्त्री । महेश्वर + ङीष् । महती चासौ ईश्वरी महदादीनां निय- न्त्रीति वा ।)
महेश्वरपत्नी । यथा, — ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम् । श्रीं पातु दक्षकर्णं मे त्रिवर्णात्मा महेश्वरी ॥” इति तन्त्रसारे भुवनेश्वरीकवचम् ॥ अपराजिता । इति शब्दचन्द्रिका ॥ कांस्यम् । इति हेमचन्द्रः । ४ । ११४ ॥ राजरीतिः । इति राजनिर्घण्टः ॥