वाचस्पत्यम्
महोक्ष || पु० महान् उक्षा अच् समा० । वृहद्वृषे अमरः । “भहोक्षं वा महाजं वा श्रोत्रियाय प्रकल्पयेत्” मनुः ।
शब्दकल्पद्रुमः
महोक्षः || पुं, (महान् उक्षा । “अचतुरविचतु- रेति ।” ५ । ४ । ७७ । इति समासान्तः अच् । निपातितश्च ।)
बृहद्वृषः । इत्यमरः । २ । ९ । ६१ ॥ तत्पर्य्यायः । वृषभः २ वृषः ३ पुङ्गवः ४ बली ५ गोनाथः ६ ऋषभः ७ गोप्रियः ८ उक्षा ९ गोपतिः १० । इति राजनिर्घण्टः ॥ (यथा, कथासरित्सागरे । ६० । ६६ । “महोक्षः स त्वया दृष्टः संस्तवश्च कृतो यदि । तदिहानय तं युक्त्या तावत् पश्यामि कीदृशः ॥”)