संस्कृत-शब्दकोशः

महोत्पल महोत्साह

महोत्सव

वाचस्पत्यम्

महोत्सव ||‍ पु० कर्म० । सन्ततमुखसम्पादकव्यापारे ।


शब्दकल्पद्रुमः

महोत्सवः || पुं, (महांश्चासावुत्सवश्च ।)
अतिशय- सुखजनककर्म्म । यथा, —
“सर्व्वैश्च जन्मदिवसे स्नातैर्म्मङ्गलपाणिभिः । गुरुदेवाग्निविप्राश्व पूजनीयाः प्रयत्नतः ॥ स्वनक्षत्रञ्च पितरौ तथा देवप्रजापतिः । प्रतिसंवत्सरञ्चैव कर्त्तव्यश्च महोत्सवः ॥” इति तिथ्यादितत्त्वे ब्रह्मपुराणवचनम् ॥ अपि च । कालिकापुराणे ६९ अध्याये । “दुर्गातन्त्रेण मन्त्रेण कुर्य्याद्दर्गामहोत्सवम् । महानवम्यां शरदि बलिदानं नृपादयः ॥”



Correction: