संस्कृत-शब्दकोशः

महोदधि महोदया

महोदय

वाचस्पत्यम्

महोदय ||‍ पु० महान् उदयो वृद्धिराधिपत्यं वा यत्र । १ कान्यकुब्जदेशे । २ तद्देशस्थे पुरभेदे न० । ३ मीक्षे पु० मेदि० ४ स्वामिनि पु० हेमर्च । “अमार्कपाते श्रवणम्” इत्यादि लक्षणात् स्मृत्युक्तार्द्धोदययोगात् “किञ्चिदूने महोदयः” इत्युक्ते किञ्चिदूने ५ योगभेदे पु० । ६ नागबलायां स्त्री राजनि० ।


शब्दकल्पद्रुमः

महोदयं || क्ली (महान् उदय उन्नतिर्यस्मिन् ।)
पुरविशेषः । तत्पर्य्यायः । कान्यकुब्जम् २ कन्या- कुब्जम् ३ गाधिपुरम् ४ कौशम् ५ कुशस्थलम् ६ । इति हेमचन्द्रः ॥


शब्दकल्पद्रुमः

महोदयः || पुं, (महान् उदयः समुन्नतिर्यस्मिन् ।)
कान्यकुब्जदेशः । आधिपत्यम् । (महान् उदय उत्कर्षो यस्मिन् ।)
अपवर्गः । इति मेदिनी । ये, १२६ ॥ (महान् उदय उत्कर्षो यस्य ।)
स्वामी । इति हेमचन्द्रः । ३ । ४९७ ॥ (महान् उदयः फलं यस्मिन् यस्माद्बा । महा- फले, त्रि । यथा, मनौ । ७ । ५५ । “अपि यत् सुकरं कर्म्म तदप्येकेन दुष्करम् । विशेषतोऽसहायेन किन्तु राज्यं महोदयम् ॥” “महोदयं महाफलम् ।” इति तट्टीकायां कुल्लूकभट्ठः ॥)



Correction: