संस्कृत-शब्दकोशः

महौजस् महौषधि

महौषध

वाचस्पत्यम्

महौषध ||‍ न० कर्म० । १ शुण्ठ्याम् २ लशुने ३ वाराहीकन्दे वत्सनाभे ४ विषे, ५ भूम्याहुल्यके राजनि० ६ पिप्पल्याम् शब्दच० ७ अतिविषायाम् अमरः ८ वीर्य्यबदौषधमात्रे च ।


शब्दकल्पद्रुमः

महौषधं || क्ली (महत् औषधम् ।)
भूम्या- हुल्यम् । शुण्ठी । (पर्य्यायो यथा, —
“शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेषजम् ऊषणं कटुभद्रञ्च शृङ्गवेरं महौषधम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
लशुनम् । (पर्य्यायो यथा, —
“लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् । अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
वाराहीकन्दः । वत्सनाभः । इति राजनिर्घण्टः ॥ पिप्पली । इति शब्दचन्द्रिका ॥ अतिविषा । इत्यमरः । २ । ९ । ३८ ॥ (महाभेषजम् । यथा, कथासरित्सागरे । ६६ । ३९ । “स्वभर्त्तॄन् प्रेर्य्य तेषाञ्च महासत्त्वान्महौषधैः । चिकित्सां कारयामासुर्नोत्तस्थुश्च तदन्ति- कात् ॥”)



Correction: