संस्कृत-शब्दकोशः

महौषध महौषधिगण

महौषधि

वाचस्पत्यम्

महौषधि ||‍ स्त्री कर्म० । १ दूर्वायां २ लज्जालुक्षुपे शब्दच० । “सहदेवी तथा व्याघ्री बला चातिबला त्वच । शङ्खपुष्पी तथा सिंही अष्टमी च सुवर्चला । महोषध्यष्टकं प्रोक्तम्” इत्युक्ते ३ देवादीनां स्नानीयद्रव्यभेदे । वा ङीप् । ४ श्वेत- कण्टकार्य्यां ५ ब्राह्म्यां ६ कटुकायाम् ७ अतिविषायाञ्च राजनि० ८ हिलमोचिकायाम् त्रिका० ।


शब्दकल्पद्रुमः

महौषधिः || स्त्री (महती ओषधिः ।)
दूर्व्वा । लज्जालुक्षुपः । इति शब्दचन्द्रिका ॥ महा- स्नानीयद्रव्यविशेषः । यथा, —
“सहदेवी तथा व्याध्री बला चातिबला तथा । शङ्खपुष्पी तथा सिंही अष्टमी च सुवर्च्चला ॥ महौषध्यष्टकं प्रोक्तं महास्नाने नियोजयेत् ॥” इति गोविन्दानन्दधृतमत्स्यपुराणवचनम् ॥ अपिच । “पृश्निपर्णी श्यामलता भृङ्गराजः शतावरी । गुडूची सहदेवी च महौषधिगणः स्मृतः ॥” इति शब्दचन्द्रिका ॥ श्रेष्ठौषधिश्च । (यथा, महाभारते । ३ । २८८ । ६ । “विशल्यौ चापि सुग्रीवः क्षणेनैतौ चकार ह । विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ॥” सञ्जीवनी । यथा, रघौ । १२ । ६१ । “दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता । जानकीविषवल्लीभिः परीतेव महौषधिः ॥” “महौषधीः सञ्जीवनी लतेव ।” इति तट्टीकायां मल्लिनाथः ॥)



Correction: