संस्कृत-शब्दकोशः

मां माकन्दी

माकन्द

वाचस्पत्यम्

माकन्द ||‍ पु० माति मा—क्विप माः परिमितः कन्दोऽस्य । १ आम्ने । २ आमलक्यां स्त्री राजनि० ३ नगरभेदे च स्त्री मेदि० गौरा० ङीष् । ४ पीतचन्दने शब्दच० ।


शब्दकल्पद्रुमः

माकन्दः || पुं, (मातीति । मा + क्विप् । माः परि- मितः सुघटितः कन्द इव फलमस्य ।)
आम्र- वृक्षः । इति मेदिनी । दे, ३८ ॥ (यथा, गीतगोविन्दे । “माकब्द ! क्रन्द कान्ताधर ! धरणितलं गच्छ यच्छन्ति यावद् भावं शृङ्गारसारस्वतमिह जयदेवस्य विष्व- ग्वचांसि ॥” तथास्य पर्य्यायः । “आम्रः प्रोक्तो रसालश्च सहकारोऽतिसौरभः । कामाङ्गो मधुदूतश्च माकन्दः पिकावल्लभः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: