संस्कृत-शब्दकोशः

माक्षिकाश्रय माक्षीकशर्करा

माक्षीक

वाचस्पत्यम्

माक्षीक is an alternate of माक्षिक. माक्षि(क्षी)क ||‍ न० मक्षिकाभिः सम्भृत्य कृतम् अण् पृषो० वा दीर्घः । १ मधुनि अमरः । तत्तुल्यगुणे उपधातुभेदे २ स्वर्णमाक्षिके ३ रौप्यमाक्षिके च राजनि० ।


शब्दकल्पद्रुमः

माक्षीकं || क्ली (मक्षिकाभिः कृतमित्यण् । निपा- ताद्दीर्घत्वम् ।)
मधु । इति राजनिर्घण्टः ॥ (धातुविशेपः । यथा, कथासरित्सागरे । ७६ । ३ । “माक्षीकधातुमधुपारदलोहाचूर्ण- पथ्याशिलाजतुविडङ्गघृतानि योऽद्यात् । सैकानि विंशतिरहानि जरान्वितोऽपि सोऽशीतिकोऽपि रमयत्यवलां युवेव ॥”)



Correction: