वाचस्पत्यम्
माङ्गल्य || न० मङ्गलमेव, मङ्गलाय हितं वा ष्यञ् । १ मङ्गले २ मङ्गलसाधने च ।
शब्दकल्पद्रुमः
माङ्गल्यं || त्रि (मङ्गलाय हितमिति । मङ्गल + ष्यञ् ।)
मङ्गलाय हितम् । यथा, राजमार्त्तण्डे । “माङ्गल्येषु विवाहेषु कन्यासंवरणेषु च । दश मासाः प्रशस्यन्ते चैत्रपौषविवर्ज्जिताः ॥” इत्युद्वाहतत्त्वम् ॥ अपि च । भीमपराक्रमे । “अधिमासे दिनपाते धनुषि रवौ भानुलङ्घिते मासि । चक्रिणि सुप्ते कुर्य्यान्न माङ्गल्यं विवाहञ्च ॥” इति मलमासतत्त्वम् ॥ (मङ्गलस्य भावः । “मङ्गतेरलच् ।” उणा० ५ । ७० । इत्यस्य वृत्तौ “भावे ष्यञि माङ्ग- ल्यम् ।” इत्युज्ज्वलदत्तः ॥)