शब्दकल्पद्रुमः
माढिः || स्त्री (माहतीति । माह + “अन्येभ्यो- ऽपि दृश्यन्ते ।” उणा० ४ । १०५ । इति क्तिन् ।)
देशभेदः । पत्रशिरा । इति रत्नकोषः ॥ दन्त- भेदः । इति केचित् । इत्यमरटीकायां भरतः ॥ पत्रभङ्गम् । दैन्यप्रकाशनम् । इति मेदिनी । ढे, २ । शब्दरत्नावली च ॥ माढिर्दैन्यं पत्रशिरार्च्चा मूढस्तन्द्रिते जडे । इति हेमचन्द्रः । ४ । १९० ॥