संस्कृत-शब्दकोशः

माढी माणव

माणक

वाचस्पत्यम्

माण(न)क ||‍ न० मा—अकच् णुट् मुट् वा । स्वनामख्याते कन्दभेदे “हरिद्रा माण(न)कं कचुः” नवपत्रिकोक्तौ ।


शब्दकल्पद्रुमः

माणकं || क्ली (मीयते पूज्यते परिमीयते वेति । मान मा वा + घञ् । स्वार्थे कन् । निपातनाण्ण- त्वम् ।)
कन्दविशेषः । माणकचु इति भाषा । अस्य गुणाः । स्वादुत्वम् । शीतत्वम् । गुरुत्वम् । शोथहरत्वम् । कटुत्वञ्च । इति राजवल्लभः ॥ यथा सुश्रुते सूत्रस्थाने । ४६ अध्याये । “माणकं स्वादु शीतञ्च गुरु चापि प्रकी- र्त्तितम् ॥”)


शब्दकल्पद्रुमः

माणकः || पुं, (मान् + घञ् । ततः कन् निपातना- ण्णत्वञ्च ।)
स्वनामख्यातवृक्षः । माणकचुगाछ इति भाषा । तत्पर्य्यायः । स्थलपद्मः २ इति रत्नमाला ॥ माणः ३ बृहच्छदः ४ छत्रपत्रः ५ । इति केचित् ॥ (यथा, सुश्रुते सूत्रस्थाने ४७ अः । “स्थूलशूरणमाणकप्रभृतयः ॥”)



Correction: