वाचस्पत्यम्
माणव || पु० मनोरपत्यं अण् अल्पार्थे णत्वम् । १ अल्पवयस्के मनुष्ये शब्दच० । स्वार्थे क । तत्रार्थे हारभेदे च हेम० ।
शब्दकल्पद्रुमः
माणवः || पुं, (मनोरपत्यं पुमान् । मनु + अपत्य- विवक्षायां अण् । “अपत्ये कुत्सिते मूढेमनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्द्धन्यस्तेन सिद्ध्यति माणवः ॥” ४ । १ । १६१ । इत्यत्र काशिका सूत्रवृत्तिः ।)
मनुष्यः । बालकः । इति शब्दरत्नावली ॥ षोडशयष्टिकहारः । इति हेमचन्द्रः । ३ । ३२४ । ४ ॥