शब्दकल्पद्रुमः
माणवकः || पुं, (अल्पो मानवः । “अल्पे ।” ५ । ३ । ८५ । इति कन् ।)
बालकः । स च षोडश- वर्षपर्य्यन्तप्रथमवयस्कः ॥ (यथा, श्रीभागवते । ८ । १९ । ३२ । “एष ते स्थानमैश्वर्य्यं श्रियं तेजोयशः श्रुतम् । दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः ॥” माणवको बालः स इव ।)
हारभेदः । स तु विंशतियष्टिकः । विशनरहार इति भाषा । इत्यमरभरतौ । २ । ६ । १०६ ॥ (बृहत्संहिता- मते तु षोडशयष्टिको हारः । यथा, तत्रैव । ८१ । ३३ । “द्धात्रिंशता गुच्छो विंशत्या कीर्त्तितोऽर्द्ध- गुच्छाख्यः । षोडषभिर्माणवको द्बादशभिश्चार्द्धमाणवकः ॥”)
कुपुरुषः । इति मेदिनी । के, २०९ ॥ वटुः । इति हेमचन्द्रः ॥