संस्कृत-शब्दकोशः

माणिमन्थ मातङ्गमकर

मातङ्ग

वाचस्पत्यम्

मातङ्ग ||‍ पुंस्त्री० मतङ्गस्य मुनेरयम् अण् । १ गजे अमरः । २ किरातजातिभेदे स्त्रियां ङीष् । ३ जैनभेदे पु० हेमच० । ४ दशमहाविद्याभेदे स्त्री ङीप् ।


शब्दकल्पद्रुमः

मातङ्गः || पुं, (मतङ्गस्येदं । मतङ्गस्यापत्यं पुमान् वा । मतङ्ग + अण् ।)
हस्ती । इत्यमरः । ३ । ३ । २१ ॥ (यथा, रामायणे । १ । ६ । २३ । “बिन्ध्यपर्व्वतजैर्मत्तैः पूर्णा हैमवतैरपि । मदान्वितैरतिवलैर्मातङ्गैः पर्व्वतोपमैः ॥”)
अश्वत्थवृक्षः । किरातजातिविशेषः । इति तट्टीकायां मथुरेशः ॥ श्वपचः । इति मेदिनी । गे, ४७ ॥ (यथा, कथासरित्सागरे । ७३ । २ । “सुदूरमन्वगायातं कार्य्याय कृतसंविदम् । सख्या दुर्गपिशाचेन मातङ्गपतिना युतम् ॥”)
अर्हदुपासकविशेषः । इति हेमचन्द्रः । ४ । २८३ ।



Correction: