वाचस्पत्यम्
मातरपितृ || स्त्री द्वि० व० माता च पिता च द्वन्द्वे मातुर्वा मातरादेशः । मात्रापित्रोः । पक्षे मातुरानङ् । मातापितृ तयोरर्थयोः द्वि० व० ।