वाचस्पत्यम्
माता || स्त्री मा—अतच् । जनन्याम् । “विश्वेश्वरीं विश्वमाताम्” इति दुर्मास्तवः ।
शब्दकल्पद्रुमः
माता || स्त्री (मान्यते पूज्यते इति । मान पूजायां + तन् ततष्टापि निपातनात् साधुः ।)
जननी । यथा, ‘विश्वेश्वरीं विश्वमातां चण्डिकां प्रणमाम्यहम् ।’ इति शिवरहस्ये दुर्गास्तवदर्शनात् आबन्तोऽयं शब्दः ॥