वाचस्पत्यम्
मातामह || पु० मातुः पिता मातृ + डामह । १ मातुः पितरि २ तत्पत्न्यां स्त्री गौरा० ङीष् ।
शब्दकल्पद्रुमः
मातामहः || पुं, (मातुः पिता । “पितृव्यमातुल मातामहपितामहाः । ४ । २ । ३६ । इति डामहच् निपातितश्च ।)
मातुः पिता । इत्य- मरः । २ । ६ । ३३ ॥ दौहित्रस्य मातामह- साधर्म्यं यथा, —
“आसीदङ्गो नृपश्रेष्ठो यज्ञशीलो दृढव्रतः । यजतः सुमहत्कालाद्वेण एकोऽभवत्ततः ॥ मृत्योः कन्या सुनीथा या मातुर्दुःशीलकारणात् । क्रूरा बुद्धिरभूत्तस्य जगतोऽस्यापि पीडने ॥ तपस्विनां कुले जाता ऋषीणाञ्च यशस्विनाम् । सगुणां निर्गुणां वापि यान्ति मातामहीं तनुम् ॥” इत्यग्निपुराणम् ॥ तन्मरणे त्रिरात्राशौचं यथा । मातामहानां मरणे त्रिरात्रं स्यादशौचकम् । इति शुद्धितत्त्वे कूर्म्मपुराणम् ॥ * ॥
दुहितृपर्य्यन्ताभावे तस्य श्राद्धे दौहित्रस्याधिकारो यथा, —
“मातामहानां दौहित्राः कुर्व्वन्त्यहनि चापरे । ते च तेषां प्रकुर्ब्बन्ति द्बितीयेऽहनि सर्व्वदा ॥” इति शुद्धितत्त्वम् । दुहितृपर्य्यन्ताभावे तस्य धने दौहित्रस्याधि- कारो यथा । तदभावे दौहित्रः । “पौत्त्रदौहित्रयोर्लोके विशेषो नास्ति धर्म्मतः । तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः ॥” इति मनुवचने पौत्त्रतुल्याभिधानेन यथा पुत्त्राभावे पौत्त्रस्तथा दुहित्रभावे दौहित्रः । अतएव गोबिन्दराजधृतो विष्णुः । अपुत्त्रपौत्रे संसारे दौहित्रा धनमाप्नु युः । पूर्व्वेषां हि स्वधाकारे पौत्त्रदौहित्रकाः समाः ॥” इति दायतत्त्वम् ॥