संस्कृत-शब्दकोशः

माताली मातुलक

मातुल

वाचस्पत्यम्

मातुल ||‍ पु० मातुर्भ्राता मातृ—डुलच् । १ मातुर्भ्रातरि अमरः २ तत्पत्न्यां वा ङीष् वा आनुक् च । मातुलानी मातुली मातुला च । मद—णिच्—उलच् पृषो० दस्य तः । ३ धुस्तूरे ४ व्रीहिभेदे ५ मदनवृक्षे च मेदि० । ६ सर्पभेदे हेम० ।


शब्दकल्पद्रुमः

मातुलः || पुं, (मातुर्भ्राता । “पितृव्यमातुलेति ।” ४ । २ । ३६ । इति निपात्यते । तत्र “मातुर्डुलच् ।” इति वार्त्तिकात् डुलच् ।)
मातृभ्राता । पितृश्यालकः । इत्यमरः । २ । ६ । ३१ । मामा इति भाषा ॥ तन्मरणे भागिनेयस्य पक्षिण्यशौचम् । यथा, शुद्धितत्त्वे । “मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्वान्धवेषु च ।” स च मातामहपर्य्यन्तरहितस्य मृतस्य प्रेत- क्रियाद्यधिकारी । यथा, —
“मातुलो भागिनेयस्य स्वस्रीयो मातुलस्य च ।” इति शातातपीयपाठक्रमात् । इति शुद्धितत्त्वम् ॥ (मात्यते खार्य्यादिना मीयते । मात + बाहु- लकात् डुलच् ।)
ब्रीहिभेदः । मदनद्रुमः । (मादयतीति । मद + णिच् + बाहुलकात् उलच् पृषोदराद् दस्य तकारत्वञ्च ।)
धुस्तूरः । इति मेदिनी । ले, १२३ ॥ पर्य्यायो यथा, —
“धत्तूर धूर्त्त धुत्तूरा उन्मत्तः कनकाह्वयः । देवता कितवस्तूरी महामोहः शिवप्रियः । मातुलो मदनश्चास्य फले मातुलपुत्त्रकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ मा विद्यते तुला तुलना यस्य ।)
सर्पविशेषः । इति हेमचन्द्रः । ३ । २१६ ॥



Correction: