संस्कृत-शब्दकोशः

मातृकच्छिद मातृकेशट

मातृका

वाचस्पत्यम्

मातृका ||‍ स्त्री मातेव कायति कै—क । १ उपमातरि २ ब्रह्मा- ण्यादिषु चण्डीप्रसिद्धदेवीमूर्त्तिषु ३ सर्वशब्दोत्पादकेषु अकारादिकोनपञ्चाशद्वर्णेषु ४ मातरि च मेदि० । मातृ + स्वार्थे क । मातृशब्दार्थे ।


शब्दकल्पद्रुमः

मातृका || स्त्री (मातेव । मातृ + “इवे प्रतिकृतौ ।” ५ । ३ । ९६ । इति कन् टाप् ।)
धातृका ॥ (यथा, बृहत्संहितायाम् । ४३ । ६६ । “रज्जूत्सङ्गच्छेदने बालपीडा राज्ञो मातुः पीडनं मातृकायाः ॥” मातैव । मातृ + स्वार्थे कन् ।)
माता । देवीभेदः । वर्णमाला । इति मेदिनी । के, १३८ ॥ करणम् । स्वरः । उपमाता । इति हेमचन्द्रः । मातृकागणोत्पत्तिर्यथा, —
“तत्र देवोऽप्यसौ दैत्यं त्रिशुलेनाहनद्भृशम् । तस्याहतस्य यद्रक्तमपतद्भूतले किल ॥ तत्रान्धका असंख्याता बभूबुरपरे भृशम् । तद्दृष्ट्वा महदाश्चर्य्यं रुद्रः शूलेऽन्धकं मृघे ॥ गृहीत्वा त्रिशिखाग्रेण ननर्त्त परभेश्वरः । इतरेऽप्यन्धकाः सर्व्वे चक्रेण परमेष्ठिना ॥ नारायणेन निहतास्तत्र येऽन्ये समुत्थिताः । असृग्धारास्तुषारैस्तु शूलप्रोतस्य चासकृत् ॥ अनारतं समुत्तस्थुः स्वतो रुद्रो रुषान्वितः । तस्य क्रोधेन महता मुखाज्ज्वाला विनिर्ययौ ॥ तद्रूपधारिणीं देवीं यान्तीं योगीश्वरीं विदुः । स्वरूपधारिणी चान्या विष्णुनापि विनिर्म्मिता ॥ ब्रह्मणा कार्त्तिकेयेन इन्द्रेण च यमेन च । वाराहेण च देवेन विष्णुना परमेष्ठिना ॥ पातालोद्धरणं रूपं तस्या देव्या विनिर्ममे । माहेश्वरी च माहेन्द्री इत्येता अष्ट मातरः ॥ कारणं यस्य यत् प्रोक्तं क्षेत्रज्ञेनावधारितम् ॥ शरीरादेव नाना तु तदिदं कीर्त्तितं मया । कामः क्रोधस्तथा लोभो मदो मोहाऽथ पञ्चमः ॥ मात्सर्य्यं षष्ठमित्याहुः पैशुन्यं सप्तमं तथा ॥ अनसूयाष्टमी ज्ञेया इत्येता अष्ट मातरः ॥ कामं योगीश्वरीं विद्धि क्रोधं माहेश्वरीं तथा ॥ लोभस्तु वैष्णवी प्रोक्ता ब्रह्माणी मद एव च । मोहः स्वयन्तु कौमारी मात्सर्य्यं चैन्द्रजां विदुः ॥ यामी दण्डधरा देवी पैशुन्यं स्वयमेव च । अनुसूया वराहाख्या इत्येताः परिकीर्त्तिताः ॥ कामादिगण एषोऽयं शरीरं परिकीर्त्तितम् । जग्राह मूर्त्तिन्तु यथा तथा ते कीर्त्तितं मया ॥ एताभिर्देवताभिश्च तस्य रक्ते तु शोषिते । क्षयं गतासुरी माया स च सिद्धोऽन्धकोऽभवत् ॥ एतत्ते सर्व्वमाख्यातमात्मविद्यामृतं मया । य एतच्छृणुयान्नित्यं मातॄणामुद्भवं शुभम् ॥ तस्य ताः सर्व्वदा रक्षां कुर्व्वन्त्यनुदिनं नृप ! । येनैतत् पट्यते जन्म मातॄणां पुरुषोत्तम ! ॥ स धन्यः सर्व्वदा लोके शिवलोकञ्च गच्छति । तासाञ्च ब्रह्मणा दत्ता अष्टमी तिथिरुत्तमा ॥ एताः संपूजयेद्भक्त्या बिल्वाहारो नरः सदा । तस्य ताः परितुष्टास्थ क्षेमारोग्यं ददन्ति च ॥” इत्यादि वाराहपुराणे कामादिमातृगणोत्पत्ति- र्नामाध्यायः ॥ अपि च । “ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः । शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥ यस्य देवस्य यद्रूपं यथाभूषणवाहनम् । तद्बदेव हि तच्छक्तिरसुरान् योद्धुमाययौ ॥ हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः । आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते ॥ माहेश्वरी वृषारूढा त्रिशूलवरधारिणी । महाहिबलया प्राप्ता चन्द्ररेखाविभूषणा ॥ कौमारी शक्तिहस्ता च मयूरवरवाहना । योद्धुमम्याययौ दैत्यानम्बिका गुहरूपिणी ॥ तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता । शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ ॥ यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः । शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥ नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः । प्राप्ता तत्र शटाक्षेपक्षिप्तनक्षत्रसंहतिः ॥ बज्रहस्ता तथैवैन्द्री गजराजोपरिस्थिता । प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥ ततः परिवृतस्ताभिरीशानो देवशक्तिभिः । हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकाम् ॥ ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा । चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥” इति मार्कण्डेयपुराणम् ॥ मातृवर्गो यथा, —
“गुरोः पत्नी राजपत्नी विप्रपत्नी च या सती । पत्नी च भ्रातृसुतयोर्मित्रपत्नी च तत्प्रसूः ॥ प्रसूः पित्रोस्तयोर्भ्रातुः पत्नी श्वश्रूः स्वकन्यका । जननी तत्सपत्नी च भगिनी सुरभी तथा ॥ स्वामीष्टसुरपत्नी च धात्री कान्ताप्रदायिका । गर्भधात्रीस्वनाम्नी च भयात्त्रातुश्च कामिनी ॥ एता वेदप्रणीताश्च सर्व्वेषां मातरः स्मृताः । एतास्वपि च सर्व्वासु न्यूनता नास्ति कासु च ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २५ अध्यायः ॥ षोडश मातरो यथा, —
“गुरुपत्नी राजपत्नी देवपत्नी तथा वधूः । पित्रोः स्वसा शिष्यपत्नी भृत्यपत्नी च मातुली ॥ पितृपत्नी म्रातृपत्नी श्वश्रूश्च भगिनीसुता । गर्भधात्रीष्टदेवी च पुंसः षोडश मातरः ॥” इति तत्रैव ५९ अध्यायः ॥ अथ मातृकान्यासः । भगवानुवाच । “मातृकान्यासमधुना शृणु वेतालभैरव ! । येन देवत्वमायाति नरोऽपि विहितेन वै ॥ वाग्ब्रह्माणीमुखा देव्यो मातृकाः परि- कीर्त्तिताः । तासां मन्त्राणि सर्व्वाणि व्यञ्जनानि स्वरास्तथा ॥ चन्द्रबिन्दुप्रयुक्तानि सर्व्वकामप्रदानि च । ऋषिस्तु मातृमन्त्राणां ब्रह्मैव परिकीर्त्तितः ॥ प्रोक्ता छन्दस्तु गायत्त्री देवता च सरस्वती । शरीरशुद्धिप्रमुखसर्व्वकामार्थसाधने ॥ विनियोगः समुद्दिष्टो मन्त्राणां न्यूनपूरणे । अकारेण समं कादिवर्गो यः प्रथमः स्मृतः ॥ तैश्चन्द्रबिन्दुसंयुक्तेस्तत्रस्थैरक्षरैर्बहिः । आकारञ्च तथोच्चार्य्य अङ्गुष्ठाभ्यां नमस्तथा । प्रथमं मातृकामन्त्रमङ्गुष्ठद्बयतो न्यसेत् ॥ परे वर्गाः स्वरैः सार्द्ध ये वान्ये न्यासकर्म्मणि । ते सर्व्वे चन्द्रबिन्दुभ्यां युक्ताः कार्य्यास्तु सर्व्वतः ॥ ह्रस्वेकारश्च वर्गेण दीर्घेकारान्तगेन तु । तर्जन्योर्विन्यसेत् सम्यक् स्वाहान्ते न तु पूर्ब्बवत् ॥ ह्रस्वोकारष्टवर्गेण दीर्घोकारान्तगेन तु । मध्यमायुगले सम्यक् वषडन्तेन विन्यसेत् ॥ एकारादितवर्गान्त ऐकारान्तेन चैव हुम् । न्यसेदनामिकायुग्मे नियतं तत्र भैरव ! ॥ ओकारादिपवर्गन्तु औकारान्तेन शेषितम् । वौषडन्तं कनिष्ठायां विन्यसेत् कार्य्यसिद्धये ॥ अंकारादियकारादिवर्गेण क्षान्तकेन च । अः इत्यन्तेन तलयोर्विन्यसेत् पाणिपृष्ठयोः ॥ वषट्कारं शेषभागे मन्त्रन्यासे नियोजयेत् । हृदयादिषडङ्गेषु पूर्ब्बवत् क्रमतो न्यसेत् ॥ अङ्गुष्ठाद्युक्तवर्गैस्तु क्रमात् षड्भिस्तथाविधैः । पुनस्तथा पादजानुसक्थिगुह्ये तु पार्श्वयोः । वस्तौ च विन्यसेन्मन्त्रान् क्रमात् पूर्ब्बवदक्षरैः ॥ बाह्वोः पाण्योस्तथा कण्ठे नाभौ च जठरे तथा । स्तनयोरपि विन्यासं तथा षड्भिः समाचरेत् ॥ वक्त्रे च चिवुके गण्डे कर्णयोश्च ललाटके । असे कक्षे च षड्वर्गैः पूर्ब्बवन्न्यासमाचरेत् ॥ रोमकूपे ब्रह्मरन्ध्रे गुदे जङ्घायुगे तथा । नखेषु पादपार्ष्ण्योश्च तथा पूर्ब्बवदाचरेत् ॥ एवन्तु मातृकान्यासं यः कुर्य्यान्नरसत्तमः । स धर्म्मयज्ञे पूजासु पूतो योग्यश्च जायते ॥ नातः परतरं मन्त्रं विद्यते क्वचिदेव हि । यः सर्व्वकामदं पुण्यं चतुर्व्वर्गफलप्रदम् ॥ वाग्देवतां हृदि ध्यात्वा मूर्द्ध्नि सर्व्वाक्षराणि च ॥ त्रिधा च मातृकामन्त्रैः संक्रमैश्च पिबेज्जलम् । स वाग्मी पण्डितो धीमान् जायते च वरः कविः ॥ चन्द्रबिन्दुसमायुक्तान् स्वरान् पूर्ब्बान् पठेद्बुधः । व्यञ्जनानि च सर्व्वाणि केवलानि पठेत्ततः ॥ अकारादिक्षकारान्तान्येवं श्वासैस्तु पूर्ब्बकैः । जलं करतले गृह्य पठित्वाक्षरसंघकम् ॥ अभिमन्त्र्य तु तत्तोयं प्रथमं पूरकैः पिबेत् । कुम्भकेन द्वितीयन्तु तृतीयन्त्वथ रेचकैः ॥ एवं सकृत्त्रिवारन्तु पीत्वा तोयं विचक्षणः । दृढाङ्गः पण्डितो भूयात् पुत्त्रपौत्त्रसमन्वितः ॥ त्रिसन्ध्यमथ पीत्वैव मातृकामन्त्रमन्त्रितम् । तोयं कवित्वमाप्नोति सर्व्वान् कामांस्तथैव च ॥ सततं कुरुते यस्तु मातृकामन्त्रमन्त्रितम् । तोयपानं महाभागः पूरकस्तम्भरेचकैः ॥ स सर्व्वकामान् संप्राप्य पुत्त्रपौत्त्रसमृद्धिमान् । भूत्वा महाकविर्लोके बलवान् सत्यविक्रमः ॥ सर्व्वत्र वल्लभो भूत्वा चान्ते मोक्षमवाप्नुयात् । राजानमथवा राजभार्य्यां पुत्त्रमथापि वा ॥ वशीकरोति न चिरात् मातृकामन्त्रपालकः । न्यासक्रमे क्रमः प्रोक्तो वर्गक्रम इहैव तु ॥ अक्षराणां क्रमेणाथ तोयपानं समाचरेत् । ये ये मन्त्रा देवतानामृषीणामथ रक्षसाम् ॥ ते मन्त्रा मातृकामन्त्रे नित्यमेव प्रतिष्ठिताः । सर्व्वमन्त्रमयश्चायं सर्व्वदेवमयस्तथा ॥ चतुर्व्वर्गप्रदश्चायं मातृकामन्त्र उच्यते । इति ते कथितः पुत्त्र ! मातृकान्यास उत्तमः ॥” इति श्रीकालिकापुराणे मातृकान्यासः ७६ अः ॥ अथ तस्य प्रयोगः । अस्य मातृकामन्त्रस्य ब्रह्मा ऋषिर्गायत्त्रीच्छन्दो मातृकासरस्वती देवता हलो बीजानि स्वराः शक्तयो मातृकान्यासे विनियोगः । शिरसि ॐ ब्रह्मणे ऋषये नमः । मुखे ॐ मायत्त्रीच्छन्दसे नमः । हृदि ॐ मातृकासरस्वत्यै देवतायै नमः । गुह्ये ॐ व्यञ्जनेभ्यो बीजेभ्यो नमः । पादयोः ॐ स्वरेभ्यः शक्तिभ्यो नमः । तथा च ज्ञानार्णवे । “मातृकां शृणु देवेशि ! न्यसेत् पापनिकृन्त- नीम् । ऋषिब्रह्मास्य मन्त्रस्य गायत्त्रीच्छन्द उच्यते ॥ देवता मातृकादेवी ब्रीजं व्यञ्जनसञ्चयम् । शक्तयस्तु स्वरा देवि ! षडङ्गन्यासमाचरेत् ॥” ततः षडङ्गन्यासौ । अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः । इं चं छं जं झं ञं ईं तर्जनीभ्यां स्वाहा । उं टं ठं डं ढं णं ऊं मध्यमाभ्यां वषट् । एं तं थं दं धं नं ऐं अना- मिकाभ्यां हुम् । ॐ पं फं बं भं मं औं कनि- ष्ठाभ्यां वौषट् । अं यं रं लं वं शं षं सं हं लं क्षं अः करतलपृष्ठाभ्यां फट् । एवं हृदयादिषु । अं कं ५ आं हृदयाय नमः । इत्यादि । तथा च ज्ञानार्णवे । “अं आं मध्ये कवर्गन्तु इं ईं मध्ये चवर्गकम् । उं ऊं मध्ये टवर्गन्तु एं ऐं मध्ये तवर्गकम् ॥ ॐ औं मध्ये पवर्गन्तु बिन्दुयुक्तं न्यसेत् प्रिये ! । अनुस्वारविसर्गान्तर्यशवर्गौ सलक्षकौ ॥ हृदयञ्च शिरो देवि ! शिखा कवचकं तथा । नेत्रमन्त्रं न्यसेत् ङेऽन्तं नमः स्वाहा क्रमेण तु ॥ वषट् हुं वौषडन्तञ्च फडन्तं योजयेत् प्रिये ! । षडङ्गोऽयं मातृकायाः सर्व्वपापहरः स्मृतः ॥ * ॥
अथान्तर्मातृकान्यासः । अकारादिषोडशस्वरान् सबिन्दून् षोडशदल- कमले कण्ठमूले न्यसेत् । ककारादिद्बादश- वर्णान् सबिन्दून् द्बादशदलकमले हृदये न्यसेत् । डकारादिदशवर्णान् सबिन्दून् दशदलकमले नाभौ न्यसेत् । वकारादिषड्वर्णान् सबिन्दून् षड्दलकमले लिङ्गमूले न्यसेत् । वकारादि- चतुरो वर्णान् सबिन्दून् चतुर्दलकमले मूला- धारे न्यसेत् । हक्षवर्णद्वयं सबिन्दुं द्विदलपद्म- भ्रूमध्ये न्यसेत् । तथा च ज्ञानार्णवे । “द्ब्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडष विन्यसेत् । द्वादशच्छदहृत्पद्मे कादीन् द्वादश विन्यसेत् ॥ दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश । षट्पत्रमध्ये लिङ्गस्थे बकारादीन्न्यसेच्च षट् ॥ आधारे चतुरो वर्णान्न्यसेद्बादीन् चतुर्द्दले । हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत् प्रिये ! ॥” अगस्त्यसहितायाम् । “एकैकवर्णमेकैकपत्रान्ते विन्यसेत् प्रिये ! । एवमन्तः प्रविन्यस्य मनसातो बहिर्न्यसेत् ॥” * ॥
वैष्णवे तु । एकैकवर्णमुच्चार्य्य मूलाधाराच्छिरोऽन्तकम् । नमोऽन्तमिति विन्यास आन्तरः परिकीर्त्तितः ॥ अथान्तर्मातृकान्यासो मूलाधारे चतुर्द्दले । सुवर्णाभे व श ष स चतुर्व्वर्गविभूषिते ॥ षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनलत्विषि । ब भ मैर्य ब लैर्युक्ते वर्णैः षड् भिश्च मुव्रते ! ॥ मणिपूरे दशदले नीलजीमूतसन्निभे । डादिफान्तदलैर्युक्ते बिन्दूद्भासितमस्तकैः ॥ अनाहते द्वादशारे प्रवालरुचिसन्निभे । कादिठान्तदलैर्युक्ते योगिनां हृदयङ्गमे ॥ विशुद्वे षोडदशदले धूम्राभे स्वरभूषिते । आज्ञाचक्रे तु चन्द्राभे द्बिदले हक्षलाञ्छिते ॥ सहस्रारे हिमनिभे सर्व्ववर्णविभूषिते । अकथादित्रिरेखात्म ह ल क्ष त्रयभूषिते ॥ तन्मध्ये परबिन्दुञ्च सृष्टिस्थितिलयात्मकम् । एवं समाहितमना ध्यायेन्न्यासोऽयमान्तरः ॥” ततो वाह्यमातृकाध्यानम् । “पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षःस्थलां भास्व मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् । मुद्रामक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ता- स्वुजै- र्बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवता- माश्रये ॥” एवं ध्यात्वा न्यसेत् । तत्राङ्गुलिनियमस्तन्त्रे । “ललाटेऽनामिकामध्ये विन्यसेम्मुखपङ्कजे । तर्जनीमध्यमानामा वृद्धानामे च नेत्रयोः ॥ अङ्गुष्ठं कर्णयोर्न्यस्य कनिष्ठाङ्गुष्ठकौ नसोः । मध्यास्तिस्रो गण्डयोश्च मध्यमाञ्चोष्ठयोर्न्यसेत् ॥ अनामां दन्तयोर्नस्य मध्यमामुत्तमाङ्गके । मुखेऽनामां मध्यमाञ्च हस्तपादे च पार्श्वयोः ॥ कनिष्ठानामिकामध्यास्तास्तु पृष्ठे च विन्यसेत् । ताः साङ्गुष्ठा नाभिदेशे सर्व्वाः कुक्षौ च विन्यसेत् ॥ हृदये च तलं सर्व्वं अंसयोश्च ककुत्स्थले । हृत्पूर्व्वं हस्तपत्कुक्षि मुखेषु तलमेव च ॥ एतास्तु मातृकामुद्राः क्रमेण परिकोर्त्तिताः । अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात्तस्य निष्फलः ॥” गौतमीये । “ललाटमुखबृत्ताक्षिश्रुतिघ्राणेषु गण्डयोः । ओष्ठदन्तोत्तमाङ्गास्यदोः पत्सन्ध्यग्रकेषु च ॥ पाश्वयोः पृष्ठतो नाभौ जठरे हृदयेऽसके । ककुद्यंसे च हृत्पूर्ब्बं पाणिपादयुगे तथा । जठराननयोर्न्यस्येन्मातृकार्णान् यथाक्रमात् ॥” तद्यथा । अं नमो ललाटे । आं नमो मुख- वृत्ते । इं ईं चक्षुषोः । उं ऊं कर्णयोः । ऋं ॠं नसोः । ऌं ॡं गण्डयोः । एं ओष्ठे । ऐं अधरे । ओं ऊर्द्ध्वदन्ते औं अधोदन्ते । अं ब्रह्मरन्ध्रे । अः सुखे । कं दक्षबाहुमूले । खं कुर्परे । गं मणिबन्धे । घं अङ्गुलिमूले । ङं अङ्गुल्यग्रे । एवं चं ५ वामबाहुमूलसन्ध्यग्रकेषु । एवं टं ५ दक्षिणपादमूलसन्ध्यग्रकेषु । एवं तं ५ वामपादमूलसन्ध्यग्रकेषु । पं दक्षिणपार्श्वे । फं वामपार्श्वे । बं पृष्ठे । भं नाभौ । मं जठरे । यं हृदि । रं दक्षबाहुमूले । लं ककुदि । वं वामबाहुमूले । शं हृदादिदक्षहस्ते । षं हृदादिवामहस्ते । सं हृदादिदक्षपादे । हं हृदादिवामपादे । लं हृदाद्युदरे । क्षं हृदादि- मुखे । सर्व्वत्र नमोऽन्तेन न्यसेत् । तथा च । “ओमाद्यन्तो नमोऽन्तो वा सबिन्दुर्व्विन्दु- वर्ज्जितः । पञ्चाशद्वर्णविन्यासः क्रमादुक्तो मनीषिभिः ॥” इति भट्टः ॥ * ॥
अथ संहारमातृकान्यासः । तस्या ध्यानं यथा, —
“अक्षस्रजं हरिणपोतमुदग्रटङ्कं विद्याः करैरविरतं दधतीं त्रिनेत्राम् । अर्द्धेन्दुमौलिमरुणामरबिन्दरामां वर्णेश्वरीं प्रणमत स्तनभारनम्राम् ॥ न्यासस्तु क्षकाराद्यकारान्तः । यथा क्षं नमो हृदादिमुखे इत्यादि ॥ * ॥
अपरञ्च । “चतुर्धा मातृका प्रोक्ता केवला बिन्दुसंयुता । सविसर्गा सोभया च रहस्यं शृणु कथ्यते ॥ विद्याकरी केबला च सोभया भुक्तिदायिनी । पुत्त्रदा सविसर्गा तु सबिन्दुर्व्वित्तदायिनी ॥” विशुद्धेश्वरे । वाग्भवाद्या च वाक्सिद्ध्यै रमाद्या श्रीप्रवृद्धये । हृल्लेखाद्या सर्व्वसिद्ध्यै कामाद्या लोकवश्यदा । श्रीकण्ठाद्यानिमान्न्यस्येत् सर्व्वमन्त्रः प्रसीदति ॥” श्रीविद्याबिषये नवरत्नेश्वरे । “वाग्भवाद्या नमोऽन्ताश्च न्यस्तव्या मातृका- क्षराः । श्रीविद्याविषये मन्त्री वाग्भवाद्यष्टसिद्धये ॥” इति तन्त्रसारः ॥ (मातृ + “ऋतष्ठञ् ।” ४ । ३ । ७८ । इति ठञ् । त्रि । मातुरागतम् । यथा, महाभारते । ६ । ८७ । ६७ । “योऽन्वयो मातृकस्तस्य स एनमभिपेदि- वान् ॥”)



Correction: